कार्त्स्न्यादेकोनपञ्चाशद् भेदा एषां प्रकाशिताः॥ २३७॥
जन्मानुबन्धातिशयसम्पर्कानुगमा इति।
युञ्जीत सर्वभावेषु वर्गयोरुभयोरपि॥ २३८॥
यदपि च गदितं प्रकर्षगामी भवति रसो रतिविस्मयादिरेव।
तदपि न समञ्जसं प्रकृष्टाः प्रतिनिजभेदममी हि सर्व एव॥ २३९॥
इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते शृङ्गारप्रकाशे हर्षादिभावप्रपञ्चको नाम
एतत्प्रकाशत्रितयं प्रकाशचतुष्टयात्मेति विभावनीयम्।
षट्त्रिंशता हन्त यतोऽत्र रक्षां प्रकाशचक्रे सुखमश्नुवीत॥
इति रेवाप्रसादस्य काश्यपस्य द्विवेदिनः।