अविरअहिअआ अण्णं पि किं पि अत्थि त्ति चिंतेइ॥ २२८॥
(निर्वृत्तरताऽपि वधूः सुरतविरामस्थितिजानती।
अविरतहृदयाऽन्यदपि किमप्यस्तीति चिन्तयति॥)
कनिष्ठा अधीरा मुग्धा यथा—(गास. १.४७)
होंतपहिअस्स जाआ १आउच्छण—जीअधारणरहस्सं।
पुच्छंती भमइ घरं घरेण पिअविरहसहिरीओ॥ २२९॥
(भविष्यत्पथिकस्य जाया आपृच्छन—जीवधारणारहस्यम्।
पृच्छन्ती भ्रमति गृहं गृहेण प्रियविरहसहनशीलाः॥)
कनिष्ठोढा मुग्धा यथा—(गास. ५.३३)
पुसइ खणं, धुवइ खणं पफ्फोडइ तक्खणं अआणंती।