मुद्धवहू थणवट्टे दिण्णं दइएण णक्खपअं॥ २३०॥
(प्रोञ्छति क्षणं धुनोति क्षणं प्रस्फोटति तत्क्षणमजानती।
मुग्धवधूः स्तनपृष्ठे दत्तं दयितेन नखपदम्॥)
कनिष्ठा अनूढा मुग्धा यथा—(गास. २.९४)
सा तुह सहत्थदिण्णं फग्गुच्छवकद्दमं थणुच्छंगे।
परिकुविआ इव साहइ सलाहिरी गामकुमरीणं॥ २३१॥
(सा त्वया स्वहस्तदत्तं फल्गूत्सवकर्दमं स्तनोत्सङ्गे।
परिकुपितेव साधयति श्लाघनशीला ग्रामकुमारीणाम्॥)
१. आपृच्छनं विरहः। प्रवासस्यापृच्छापूर्वकत्वात्। तथा च मेघे 'आपृच्छस्व प्रियसखे' ति कालिदासः।
कनिष्ठा धीरोढा मुग्धा यथा—