अच्छीइं ता थइस्सं दोहिं वि हत्थेहिं तम्मि दिट्ठम्मि।
अंगं कलंबकुसुमं व पुलइअं कहं णु ढक्किस्सं॥ २३४॥
(अक्षिणी तावत् स्थगयिष्यामि द्वाभ्यामपि हस्ताभ्यां तस्मिन् दृष्टे।
अङ्गं कदम्बकुसुममिव पुलकितं कथं नु स्थगयिष्ये?॥)
कनिष्ठा अधीराऽनूढा मुग्धा यथा—(गास. ७.४२)
गिज्जंते मंगलगाइआहि वरगोत्त-दिण्णअण्णाए।
सोउं व्व णिग्गओ उवह होंतबहूआएं रोमंचो॥ २३५॥
(गीयमाने मङ्गलगायिकाभिर्वरगोत्रदत्तकर्णायाः।
श्रोतुमिव निर्गतः पश्यत भविष्यद्वधूकाया रोमाञ्चः॥)