प्रकर्षो यथा—(भल्लटशतकं ६९)
यदाऽऽसीदज्ञानं स्मरतिमिरसंस्कारजनितं तदा दृष्टिं नारीमयमिदमशेषं जगदपि।
इदानीमस्माकं पटुतरविवेकाञ्जनजुषां समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म मनुते॥ २३४॥
अलमतिचपलत्वात् स्वप्नमायोपमत्वात् परिणतिविरसत्वात् सङ्गमेन प्रियायाः।
इति यदि शतकृत्वस्तत्त्वमालोचयाम— स्तदपि न हरिणाक्षीं विस्मरत्यन्तरात्मा॥ २३५॥
यन्मीमांसयतः श्रुतीः शतपथाः साक्षात्कृतब्रह्मणो विश्वामित्रमहामुनेरपि च यद् वर्तामहे चेतसि।
अप्युल्लीढकषायपालनधियां सद्यः समाधिश्लथं तत् सङ्गीतकमन्तरेण हृदयं हर्षान्नरीनर्तितम्॥ २३६॥
एते रत्यादयो भावाः शृङ्गारव्यक्तिहेतवः।