धिक् सानुजं कुरुपतिं धिगजातशत्रुं धिग् भूपतीन् विफलशस्त्रभृतो धिगस्मान्।
केशग्रहः खलु तदा द्रुपदात्मजायाः द्रोणस्य चाद्य लिखितैरिव वीक्षितो यैः॥ २२५॥
सर्वदोषानभिष्वङ्गदाम्नायसमतां गताः।
युष्माकमभ्युपगमाः प्रमाणं पुण्यपापयोः॥ २२६॥
वैराग्यादिभिर्मनःखेदो निर्वेदः। तस्य
शीतेनोद्धृषितस्य माषशिमिवच्चिन्तार्णवे मज्जतः शान्ताग्िंनस्फुटिताधरस्य धमतः क्षुत्क्षामकण्ठस्य मे।
निद्रा का(क्वा)ऽपि विमानितेव दयिता सन्त्यज्य दूरं गता सत्पात्रप्रतिपादितेव वसुधा न क्षीयते शर्वरी॥ २२७॥