विचिन्तयन्ती यमनन्यमानसा तपोनिधिं वेत्सि न मानुपस्थितम्।
स्मरिष्यति त्वां न स बोधितोऽपि सन् कथां प्रमत्तः प्रथमोदितामिव॥ २१९॥
सम्पर्को यथा—(मामा. १.३३)
परिच्छेदातीतः सकलवचनानामविषयः पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान्।
विवेक—प्रध्वंसादुपचित—महामोह—गहनो विकारः कोऽप्यन्तर्जडयति च तापं च तनुते॥ २२०॥
आश्चर्यमुत्पलदृशो वदनामलेन्दुसान्निध्यतो मम मुहुर्जडिमानमेत्य।
जात्येन चन्द्रमणिनेव महीधरस्य सन्धार्यते द्रवमयो मनसो विकारः॥ २२१॥
पदार्थनिन्दनं जुगुप्सा। तस्या