(दृढमन्युदूतनयाऽपि गृहीतो दयिते पश्यतानया। अपसरति वालुकामुष्टिरिव मानः सुरसुरायमाणः॥)
मध्यमा अधीराऽनूढा यथा—(लीलावती ४२३)
तस्स मअलंछणस्स व करफंससमुग्गएण सेएण। ससिमणिघडिआ वाओल्लिअ व्व वारीमई जाआ॥ १९३॥
(तस्य मृगलाञ्छनस्येव करस्पऱ्शसमुद्रतेन स्वेदेन। शशिमणिघटिता पुत्तलिकेव वारिमयी जाता॥)
मध्यमा मुग्धा यथा—(गास. ४. ७)
हत्थेसु अ पाएसु अ अंगुलिगणणाए ववगआ/अइगआ दिअहा। एण्हिं उण केण गणिज्जउ त्ति भणिउं मोहं गआ/रुअइ मुद्धा॥ १९४॥
(हस्तयोश्च पादयोश्चाङ्गूलिगणनया व्यपगता दिवसाः। इदानीं पुनः केन गण्यतामिति भणित्वा मोहं गता/रोदिति मुग्धा॥)
मध्यमा धीरा मुग्धा यथा—(गास. २. ७०)
झंझावाउत्तिण्णिअघरविवर/पलोट्ठ—सलिल—धाराहिं। कुडु—लिहिओहि—दिअहं रक्खइ मुद्धा/अज्जा करअलेहिं॥ १९५॥
(झञ्झावातोत्तृणीकृतगृहविवरप्रपतत्(?)—सलिलधाराभिः। कु़ड्यलिखितावधिदिवसं रक्षति मुग्धा/आर्या करतलैः॥)