वहतु धनुरसङ्गादैक्षवं वैणवं वा प्रहरतु च पृषत्कैः कौसुमैरायसैर्वा।
तदपि मकरकेतुर्मूर्ध्नि धन्वीश्वराणामियमिह युवभावं यावदङ्गीकरोति॥
वयं वक्तुं मिथ्या मधुरमविधेयात्मवचसो यथार्यं(र्थं) चेद् ब्रूयाः (भवति) स्यनुननय (तदमुष्याननुनयः)।
सुखा(—स्वादाभीष्टप्रिय—)रसिकया (मुग्धहृदये) त्वया मानः कस्मादयमबुधबोधाय विहितः॥ २०६॥१
१. पद्येऽत्र कोष्ठकेष्वस्मद्कृता पूर्त्तिः।
प्रकारो मानस्य प्रियसखि ! यदीदृक् क्वचिदपि श्रुतो वा दृष्टो वा कथयतु तदाऽयं तव जनः।