प्रियं पादापान्तप्रणतमवधूय त्वमधुना वृतिच्छेद्रे पश्यस्पपहरसि हृष्यन्त्यसुहृदः॥ २०७॥
एतस्मान्मां कुशलिनमभिज्ञानदानाद् विदित्वा मा कैलीनादसितनयने ! मय्यविश्वासिनी भूः।
स्नेहानाहुः किमपि विरहे ध्वंसिनस्तेऽप्यभोगा— दिष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति॥ २०८॥
शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ मासानन्यान् गमय चतुरो लोचने मीलयित्वा।
पश्चादावां विरहगुणितं तं तमात्माभिलाषं निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु॥ २०९॥