वयस्स्नेहाकूतव्यतिकरघनो यत्र मदनः प्रगल्भव्यापारश्चलति हृदि मुग्धश्च वपुषि ॥ २०१॥
३. प्रौढिर्यथा—(कुसं. १.४०)
अन्योन्यमुत्पीडयदुत्पलाक्ष्याः स्तनद्वयं पाण्डु तथा प्रवृद्धम्।
मध्ये तथा श्याममुखस्य तस्य मृणालसूत्रान्तरमप्यगम्यम्॥ २०२॥
स्मितपरिचिता वृत्तिर्वाचामपाङ्गतरङ्गितं नयनयुगलं पादन्यासो नितम्बभरालसः।
अहह सुतनोर्लीलासूत्रैः कृतं पदमङ्गके वहतु मदनः शोभामात्रं धनुर्ननु संप्रति॥ २०३॥
उदरमिदमनिन्द्यं मानिनीश्वासलाव्यं स्तनतटपरिणाहो दोर्लतालेह्यसीमा।
स्फुरति च वदनेन्दुर्दृक्प्रणालीनिपेय— स्तदिह सृदृशि ! कल्याः केलयो यौवनस्य॥ २०४॥