सेयमनभ्रा वृष्टिस्तदिदमवृष्टीह कन्दलीजन्म।
तदिदमकन्दलि कुसुमं तदिदमकुसुमं फलं चेति॥ २१३॥
उपकारस्मरणं यथा—(मामा. ४.८)
तन्मे मनः क्षिपति यत् सरसप्रहारमालोक्य मामगणितस्खलदुत्तरीया।
त्रस्तैकहायनकुरङ्गविलोलदृष्टिराश्लिष्टवत्यमृतसवलितैरिवाङैः ॥ २१४॥
सरसकुसुमक्षामैरङ्गैरनङ्गमहाज्वर— श्चिरमविरतोन्माथी सोढः प्रतिक्षणदारुणः।
तृणमिव ततः प्राणान् मोक्तुं मनो विधृतं तया किमपरमतो निर्व्यूढं यत् करार्पणसाहसम्॥ २१५॥
कलाविचारप्रमुखा अपीदानीं प्रकाशिताः।