किं शीतलैः क्लमविनोदिभिरार्द्रवातैः संचालयामि नलिनीदलतालवृन्तैः।
अङ्के निधाय करभोरु ! यथासुखं ते संवाहयामि चरणावुत पद्मताम्रौ॥
लोलांशुकस्य पवनाकुलितांशुकान्तं॰॥ २११॥
दैवसंपद् यथा—(काव्याद. २.२९९)
मानमस्या निराकर्तुं पादयोर्मे/र्निपतिष्यतः।
उपकाराय दिष्ट्येदमुदीर्णं घनगर्जितम्॥ २१२॥