(गृहिण्या महानसकर्मलग्नमसीमलिनेतेन/नेन हस्तेन।
स्पृष्टं मुखं हस्यते चन्द्रावस्थं गतं पत्या॥)
मध्यमाऽनूढा यथा—(गास. ६.७५)
कस्स करो बहुपुण्णप्फलेक्कतरुणो तुहं विसम्मिहइ।
थणपरिणाहे वम्महणिहाणकलसे व्व पारोहो॥ १८९॥
(कस्य करो बहुपुण्यफलैकतरोस्तव विश्रमिष्यति।
स्तनपरिणाहे मन्मथनिधानकलश इव प्ररोहः॥)
मध्यमा धीरोढा यथा—(गास. ४. ८४)
पिसअ पिए ! का कुविआ सुअणु ! तुमं परअणम्मि को कोवो।
का हु परो णाह ! तुमं कीस अप्पुण्णाण मे सत्ती॥ १९०॥