मार्गं यत्र न विश्वकर्मतनयः कर्तुं नलोऽपि क्षमः सौमित्रेरपि पत्रिणामविषये तत्र प्रिया क्वापि मे॥ १७८॥
प्रकर्षो यथा—(वेसं. ५.१२)
हते द्रोणे च भीष्मे च यदासीदवलम्बनम्।
वत्सस्य मे सुहृत् प्रेयान् राधेयः सोऽप्ययं हतः॥ १७९॥
तीर्णे भीष्ममहोदधौ, कथमपि द्रोणानले निर्वृते कर्णाशीविषभोगिनि प्रशमिते, शल्ये च याते दिवम्।
भीमेन प्रियसाहसेन रभसादल्पावशेषे जये सर्वे जीवितसंशयं वयममी वाचा समारोपिताः॥ १८०॥
चिरादाशातन्तुस्त्रुटतु (बिसिनीसूत्र)भिदुरो महान् आधिर्व्याधिर्निरवधिरिदानीं प्रसरतु।
प्रतिष्ठामव्याजं व्रजतु मयि परिप्लवधुरा विधिः स्वास्थ्यं धत्तां, भवतु कृतकृत्यश्च मदनः॥ १८१॥