भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 631 to 640 of 841 verses
मार्गं यत्र न विश्वकर्मतनयः कर्तुं नलोऽपि क्षमः सौमित्रेरपि पत्रिणामविषये तत्र प्रिया क्‍वापि मे॥ १७८॥

प्रकर्षो यथा—(वेसं. ५.१२)

हते द्रोणे च भीष्मे च यदासीदवलम्बनम्।

वत्सस्य मे सुहृत् प्रेयान् राधेयः सोऽप्ययं हतः॥ १७९॥

संपर्को यथा—(वेसं. ६.१)

तीर्णे भीष्ममहोदधौ, कथमपि द्रोणानले निर्वृते कर्णाशीविषभोगिनि प्रशमिते, शल्ये च याते दिवम्।

भीमेन प्रियसाहसेन रभसादल्पावशेषे जये सर्वे जीवितसंशयं वयममी वाचा समारोपिताः॥ १८०॥

अनुगमो यथा—(मामा. ४.३)

चिरादाशातन्तुस्‍त्रुटतु (बिसिनीसूत्र)भिदुरो महान् आधिर्व्याधिर्निरवधिरिदानीं प्रसरतु।

प्रतिष्ठामव्याजं व्रजतु मयि परिप्लवधुरा विधिः स्वास्थ्यं धत्तां, भवतु कृतकृत्यश्च मदनः॥ १८१॥

Showing 631 to 640 of 841 verses