(तावदेव रतिसमये मिथुनानां/महिलानां विभ्रमा विराजन्ते।
यावन्न कुवलयदलसदृशानि मुकुलन्ति/मुकुलीभवन्ति नयनानि॥)
५५. कृतार्थप्रोत्साहनं यथा—(माघ. १०.८८)
विश्रमार्थमुपगूढमजस्रं यत् प्रियैः प्रथमरत्यवसाने।
योषितामुदितमन्मथामादौ तद् द्वितीयसुरतस्य बभूव॥ १८८॥
५६. मृदुक्रोधप्रवर्तनं यथा—(गास. १.२७)
पणअकुविआणँ दोण्ह वि अलिअपसुत्ताणँ माणइल्लाणं।
णिच्चलणिरुद्धणीसासदिण्णकण्णाण को मल्लो॥ १८९॥
(प्रणयकुपितयोर्द्वयोरप्यदलीकप्रसुप्तयोर्मानवतोः।
निश्चलनिरुद्वनिःश्वासदत्तकर्णयोः को मल्लः॥)