अत्रापि पश्यन्तु बहूनि दिव्यदिव्यानि रत्नानि सुगोपितानि॥
असौ सप्तदशो भोजप्रकाशो भरतानुगान्।
दृष्टिभेदानुदाहृत्य नृत्यवेदायते तु नः॥
१. मातृकायां पुटद्वयपरिमिता त्रुटिरत्र, यत्र नाशा. ८. ७४–८४ निरूपिता 'अभितप्ता, जिह्मा, ललिता, वितर्किता, अर्धमुकुला, विभ्रान्ता, विप्लुता, आकेकरा, विक्रोशा, स्त्र/त्रस्ता, मदिरा' इति एकादश दृष्टिभेदा लुप्ताः।