कामस्स वि दुव्विसहा, दिट्टिणिवाआ ससिमुहीणं॥ ११८॥
(निद्रालसपरिघूर्णनशीलत्र्यश्रवलदर्धतारकालोकाः ।
कामस्यापि दुर्विषहा दृष्टिनिपाताः शशिमुखीताम्॥)
३. पश्चाद् वलितग्रीवं (नाशा. ८.३३) परावृत्तं; यथा—(मामा. १.३२)
यान्त्या मुहुर्वलितकन्धरमाननं तद् आवृत्तवृन्तशतपत्रनिभं वहन्त्या।
दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः॥ ११९॥
४. रूपवर्णनायुक्तमनुवृत्तं; यथा—
लावण्यसिन्धुरपरैव हि केयमत्र यत्रोत्पलानि शशिना सह संप्लवन्ते।
उन्मज्जति द्विरदकुम्भतटी च यत्र यत्रापरे कदलकाण्डमृणालदण्डाः॥ १२०॥
५. अग्रतो दृष्टं विलोकितं; यथा—(किराता. १३.३५)