निर्जिवद्यूताश्रयाः — आयप्राप्तिः, (रक्षा/) अक्षविधानं, रूपसङ्ख्या, क्रियामार्गः, जीवग्रहणं, नयज्ञानं, करणज्ञानं, चित्राचित्रविधिः, गूढराशिः, तुल्याभिघारः, क्षिप्रग्रहणम्, अनुप्राप्तिः, लेखास्मृत्यनुक्रमः, छलव्यामोहनं, ग्रहणा/ ग्लहादानमिति।
(सजीवद्यूताश्रयाः) सजीवः अनाश्रयस्तु — उपस्थापनविधिः बुद्धं, ततं, गतं, नृत्तमिति।
६.३ अथ शयनोपचारिक्यः — स्त्रीपुरुषभावग्रहणम्, (स्वराग/) अनुरागप्रकाशनं, प्रत्यङ्गदानं, नखदन्तयोर्विचारौ, नीवीस्रंसनं, गुह्यस्पर्शानुलोम्यं, परमार्थकौशलं, हर्षणं, समानार्थता, कृतार्थप्रोत्साहनं, मृदुक्रोधप्रवर्तनं, क्रुद्धप्रसादनं, सुप्तापरित्यागः, चरमस्वापविधिः, गुह्यगूहनमिति।
उत्तरकलाः — साश्रुपातं रमणस्य वीक्षणं, स्वयं शपथक्रिया, प्रस्थितानुगमनं, पुनर्निरीक्षणमिति।
अथैतासामुदाहारणानि। तत्र—
१. गीतं यथा— विलासमसृणोल्लसन्मुललोलदोःकन्दली॰॥ १३४॥ (पृ. ४५७)