अज्ज कइमो हु दिअहो वाहवहू रूवजोव्वणुम्मत्ता।
सोहग्गं धणुरुंपच्छलेण रच्छासु विक्खिरइ॥ १३०॥
(अद्य कतमोऽपि दिवसो व्याधवधू रूपयौवनोन्मत्ता।
सौभाग्यं धनुस्तष्टत्वक्छलेन रथ्यासु विकिरति॥)
नवपरिणयलज्जाभूषणां तत्र गौरीं वदनमपहरन्तीमब्जसङ्काशमीशः ।
अपि शयनसखीभ्यो दत्तवाचं कथंचित् प्रथममुखविकासैर्हासयामास गूढम्॥ १३१॥
तां नारदः कामचरः कदाचित् कन्यां किल प्रेक्ष्य पितुः समीपे।
समादिदेशौकवधूं भवित्रीं प्रेम्णा शरीरार्धहरां हरस्य॥ १३२॥