तत्र नायिका अपि चतस्त्रः स्वकीया, परकीया, पुनर्भूः, सामान्या च। तत्र स्वकीया यथा—
अतिथिभिर्गतमेव गृहागतैः॰ (पृ. ८७९)
का त्वं शुभे! कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते।
आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्ति॥ १२५॥
पुनर्भूर्यथा—(माघ. १६.८१)
यामूढवानूढवराहमूर्तिर्मुहूर्तमादौ पुरुषः पुराणः।
तेनोह्यते साम्प्रतमक्षतैव क्षतारिणा सम्यगसौ पुनर्भूः॥ १२६॥
मदोदयान्दोलितताम्रलोचनाः सुराङ्गानास्तूर्णमितोऽपसर्पत।