सान्द्रोशीरकुटुम्बिनीस्तनभरव्यालुप्तघर्मक्लमो देवे नीरमुदारमुज्झति सुखं शेते निशि ग्रामणीः॥ १२६॥
मनसि अनुभूतार्थप्रतिबिम्बनं स्मृतिः। तस्या
अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः।
रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तिम्/सुप्तः॥ १२७॥
अनुबन्धो यथा—(रघु. १३.२८)
पूर्वानुभूतं स्मरता च रात्रौ कम्पोत्तरं भीरु तवोपगूढम्।
गुहाविसारीण्यतिवाहितानि मया कथञ्चिद् घनगर्जितानि॥ १२८॥
प्रकर्षो यथा—(उराच. १.१८)