सौहृदाङ्कुरकन्दश्च द्विप्रकारोऽपि दर्शितः॥ १३२॥
भावान्तरेभ्यः सर्वेभ्यो रतिभावः प्रकृष्यते।
कविवर्गः समग्रोऽपि तमेनमनुधावति॥ १३३॥
निसर्गसंसर्गमुखैः प्रभेदैर्जन्मानुबन्धातिशयादिभिश्च।
इदं विनिश्चित्य निवेशयन्तः कवीन्द्रभावं कवयो लभन्ते॥ १३४॥
इति श्रीमहाराजाधिराजभोजदेवविरचिते शृङ्गारप्रकाशे रतिप्रकाशनो नाम
कामपत्न्यावुभे ह्येते रतिप्रीति तयोरसौ।
प्रकाशो भोजदेवेन हन्त गाढं प्रकाशितः॥
सनातनस्य मे पुण्यं महदेव न संशयः।