नायकः — कथमुत्तरोत्तरप्रतिवादिनी रदनिका। कष्टम्! ॥ १०७॥
यदा हि भाग्यक्षयपीडितो नरो दशां कृतान्तोपहितां प्रपद्यते।
तदाऽस्य मित्राण्यपि यान्त्यमित्रतां चिरानुरक्तोऽपि विरज्यते जनः॥ १०८॥
यद्गुणदोषीकरणं दोषगुणीकरणमेव वा वादे।
हेतुभिरुपपन्नार्थैस्तन्मृदवं नाम विज्ञेयम्॥ १०९॥
तत्र दोषस्य गुणीकरणं यथा शाकुन्तले—(शाकु. २.५)
मेदश्छेदकृशोदरं लघु भवत्युत्थानयोग्यं वपुः सत्त्वानामुपलक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः।
उत्कर्षः स च धन्विनां यदिषवः सिद्धयन्ति लक्ष्ये चले मिथ्यैव व्यसनं वदन्ति मृगयामीदृग् विनोदः कुतः॥ ११०॥