भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 471 to 480 of 1530 verses
कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धनात् तद् वासः श्लभमेखलागुणधृतं किंचिन्नितम्बे स्थितम्।

एतावत् सखि वेद्मि साम्प्रतमहं तस्याङ्गसङ्गे पुनः कोऽसौ कास्मि रतं च किं कथमिति स्वल्पापि मे न स्मृतिः॥ १०४॥

स्थैर्यं यथा—(उराच. १.३९)

अद्वैतं सुखदुःखयोरनुगतं सर्वास्ववस्थासु यत्॥ १०५॥

भावविशेषो यथा—(उरा. ५.४)

शत्रोस्सागरलङ्घनं किमपरं द्वारोपरोधः पुरे दोर्दण्डा अपि मे त एव कुलिशक्षुण्णाङ्गदग्रन्थयः।

सर्वं सोढमिदं वृथैव हि मया सीताप्रसक्तात्मना पापो ध्वस्तमनोरथस्तु सरलं दृष्टोऽपि नाहं तया॥ १०६॥

(मनोरथोऽत्र कर्तृ)

रसविशेषो यथा—(अमरुक. ३८)

कोपो यत्र भ्रुकुटिरचना विग्रहो यत्र मौनं यत्रान्योन्यस्मितमनुनयो दृष्टिपातः प्रसादः।

Showing 471 to 480 of 1530 verses