भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 461 to 470 of 1530 verses
अभिषङ्गो यथा—(मामा. ५.१०)

लीनेव प्रतिबिम्बितेव लिखितेवौत्कीर्णरूपेण च प्रत्युप्‍तेव च वज्रलेपघटितेवान्तर्निखातेव च।

सा नश्चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभि— श्चिन्तासन्ततितन्तुजालनिबिडस्यूतेव लग्‍ना प्रिया॥ १०१॥

निर्वृतिर्यथा—(मामा. १.३६)

जगति जयिनस्ते ते भावा नवेन्दुकलादयः प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये।

मम तु यदियं याता लोके विलोचनचन्द्रिका नयनविषयं जन्मन्येकः स एव महोत्सवः॥ १०२॥

उत्पादो यथा—(मवीच. १.२१)

उत्पत्तिर्देवयजनाद् ब्रह्मवादी नृपः पिता।

सुप्रसन्नोज्ज्वला मूर्तिरस्याः स्‍नेहं करोति मे॥ १०३॥

अभवृद्धिर्यथा—

Showing 461 to 470 of 1530 verses