भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 441 to 450 of 1530 verses
उद्विग्‍नरोदनशीलया वयमपि रोदितास्तया॥)

अथ यथा (वै.सू. २.१.६) सर्पिर्जतुमधूच्छिष्टादीनां पार्थिवानां घनतुहिनकरकादीनामाप्यानां त्रपुसीसरजतादीनां तैजसानामग्‍निसंयोगाद् द्रवता अद्भिस्सामान्यं भवति, तथा विभावानुभावव्यभिचारिणां रससंयोगाद् रसता रसेनैव सामान्यं भवति। यथा—(रघु. ८.७०)

विलपन्निति कोसलाधिपः करुणार्थग्रथितं प्रियां प्रति।

अकरोत् पृथिवीरुहानपि स्त्रुतशाखारसबाष्पदुर्दिनान्॥ ९५॥

अथ यथा ओषधिरसेभ्यो मधुनिष्पत्तिः, यथा मधुरादिभ्यः षाडवोत्पत्तिः, यथा गुडादिभ्य आसवोत्पत्तिः; तथा तेभ्यस्तेभ्यो रससामान्येभ्यः रसविशेषाभिनिर्वृत्तिः भवति। यथा—(रत्‍ना. ४. १९)

यातो विक्रमबाहुरात्मसमतां प्राप्‍तेयमुर्वीतले सारं सागरिका ससागरमहीप्राप्‍त्येकहेतुः प्रिया।

देवी प्रीतिमुपागता च भगिनीलाभाज्जिताः कोसलाः किं नास्ति त्वयि सत्यमात्यवृषभे यस्मिन् करोमि स्पृहाम्॥ ९६॥

अथ यथैकस्याप्यग्रेर्भौमदिव्यौदर्यादयो जातिभेदाः दाहालोकपाकादयोऽर्थक्रियाः धूमार्चिरङ्गारादयोऽवस्थाः संदृश्यन्ते, तथैकस्यापि रसस्य भावरसतदाभासादयो जातिभेदा उत्कण्ठाभिषङ्गनिर्वृत्यादयोऽर्थक्रिया उत्पादाभिवृद्धिस्थैर्यादयोऽवस्थास्स— मुपलभ्यन्ते। तत्र—

भावो यथा—(कुसं. ३.६७)

हरस्तु किंचित्परिवृत्तरिवृत्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः।

Showing 441 to 450 of 1530 verses