तन्वङ्ग्यालिङ्गितः कण्ठे कलं कूजति को विटः॥ ११९॥ (घटः)
१. व्योम्नि पर्णस्थितिर्वायुतो भवति। स नरयुक्तः 'वानर'—रूपः कपिमाचष्टे।
श्लोकादेरक्षरव्यत्यासेन कथनमक्षरमुष्टिः। यथा—
अतिः अतिः अन्म अलं प्रीद्य रद्य जद्य फद्य। मेलामेला मेलं मेलं फसफसफसफसः॥ १२०॥
अद्य मे सफला प्रीतिरद्य मे सफला रतिः।
अद्य मे सफलं जन्म अद्य मे सफलं फलम्॥ १२१॥
यथास्थितस्वरानुस्वारविसर्गसंयोगस्योक्तार्थस्य च श्लोकादेः कादिवर्णस्थाने बिन्दुविनिवेशो बिन्दुमती। तद्यथा—
तवापवादः प्रत्यब्धि पताका प्रतिसङ्गरम्।
फलं प्रत्यद्भुतोपायं यशांसि न तु न क्वचित्॥ १२२॥