क्रियागूढं, कारकगूढं, संबन्धगूढं, वस्तुगूढं, पादगूढम्, अभिप्रायगूढं चेति। तेषु क्रियागूढं यथा—(न स्थ)
स्तनजघनभराभिराममन्दं गमनमिदं मदिरारुणेक्षणायाः।
कथमिव सहसा विलोकयन्तो मदनशरज्वरजर्जरा युवानः॥ १२६॥
पिबतस्ते शरावेण वारि कह्लारशीतलम्।
केनेमौ दुर्विदग्धेन हृदये विनिवेशितौ॥ १२७॥
सम्बन्धगूढं यथा—(काव्याद. ३.१०८)
न मयागोरसाभिज्ञं चेतः कस्मात् प्रकुप्यसि।
अस्थानरुदितैरेभिरलमालोहितेक्षणे॥ १२८॥