(जानामि कृतापराधं जानामि अलीकानि भणति सकलानि।
अनुनयति पुनर्जाने कृतापराधमिवात्मानम्॥)
सङ्ख्याया द्रव्यभेदो यथा—
त्रयोऽग्नयस्त्रयो वेदास्त्रयो देवास्त्रयो गुणाः।
त्रयो दण्डिप्रबन्धाश्च त्रिषु लोकेषु पूजिताः॥ ९६॥
संज्ञातो द्रव्यभेदो यथा—(म.वी.च. १.२०)
लाङ्गलोल्लिख्यमानाया यज्ञभूमेः समुद्गता।
सीतेयमूर्मिलेयं तु द्वितीया जनकात्मजा॥ ९७॥