औपाधिकः क्रियाभेदो यथा— उष्ट्रासिका आस्यन्ते, हतशायिकाश्शय्यन्ते, रैपोषं पुष्यति, समूलकाषं कषति; यथा च भवेदपि भवेत् स्यादपि स्यादिति।
औपाधिकः सम्बन्धिभेदो यथा—सम्पन्नो यवो यवनेषु, शुष्कस्तुरुष्केषु, विनष्टः सुराष्ट्रेषु; परुत् भवान् पटुरासीत् पटुतर ऐषमः, अन्य एवासि सम्पन्न इति।
तासु श्रिया राजपरम्परासु प्रभाविशेषोदयदुर्निरीक्षः।
सहस्रधात्मा व्यरुचद् विभक्तः पयोमुचां पङ्क्तिषु विद्युतेव॥ १००॥
मगधेषु स्तनौ पीनौ कलिङ्गेष्वक्षिणी शुभे।
बाहू प्रलम्बावङ्गेषु वङ्गेषु चरणौ दृढौ॥ १०१॥
दैत्याधिपप्राणमुषां नखानामुपेयुषां भूषणतां क्षतेन।