अपि च यदि पदार्थावगतिमात्रादेवान्वयावगमस्तदा कस्मिन् प्रमाणेऽस्यान्तर्भाव इति वाच्यम्। न तावच्छाब्दे, शब्दाभावात्; पदार्थाभिधानावान्तरव्यापारेण हि यच्छब्दादन्वयज्ञानं न तच्छाब्दमित्यभिहितान्वयवादिनां सिद्धान्त इति नास्य शाब्देऽन्तर्भावः। प्रमाणान्तराभ्युपमे तु शाब्दस्योच्छेदः, शब्दावगतपदार्थाविषयेऽपि तस्यैव प्रामाण्यप्रसङ्गात्। तस्माच्छब्दाभिहितानां पदार्थानामन्यत्रादृष्टं वाक्यार्थाव— बोधनसामर्थ्यं परिकल्पयितव्यम्। तदाधानशक्तिश्च शाब्दानामपीति कल्पनालाघवा— च्छब्दानामेवान्वितस्वार्थबोधनशक्तिमात्रं कल्पयितुं न्याय्यम्।
अथोच्यते—'आकाङ्क्षासन्निधियोग्यतावन्तः पदार्था एव वाक्यार्थीभवन्ति, न पुनर्वाक्यार्थमवबोधयन्तीति, तदतिमन्दम्; वाक्यार्थावगतेः कारणाभावप्रसङ्गात्। अनुपायत्वे हि पदानामन्वयप्रतीतौ पदार्था अपि चेन्न कारणं अकारण्येवान्वय— प्रतीतिरापद्येत।
स्यान्मतम्—'क्रियापदेन कारकपदेन वा साकाङ्क्षार्थे पूर्वाभिहिते यदेव पदान्तरेण योग्यं प्रतियोगिपदार्थान्तरं सन्निधाप्यते, तदेव तत्र सम्बन्धित्वेनावतिष्ठत' इति।
सत्यमेवम्; अवगतिस्तु तत्सम्बन्धस्य किंनिबन्धनेति वाच्यम् ?
अथ पूर्वपदार्थे साकाङ्क्षे यत्पदान्तरमुच्चरति तत् तत्सम्बन्धितयैव स्वार्थमुपनयति, प्रत्ययवत्। यथा प्रकृत्यर्थे पूर्वप्रतीते प्रत्यय उच्चार्यमाणः स्वार्थं तद्विशिष्टमेवाभिधत्ते तथा पदान्तरमपीति। तदुक्तम्—'प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूत'—इति (काशिकायां १.२.५६)। प्रकृतिः स्वार्थं प्रत्ययार्थविशेषणत्वेनोपनयन्ती प्रत्ययेन सह तदर्थमाहेत्यर्थः। तथा चोक्तम्—
नित्यं विशिष्ट एवार्थे प्रत्ययो यतत्प्रयुज्यते।
तत्पूर्वतरविज्ञातप्रकृत्यर्थविशेषणात् ॥ ८७॥
अङ्गीकृतं तर्हि द्वितीयस्यान्विताभिधानं, प्रथमस्य तथापि नास्तीति चेन्न; वाक्ये पदानां प्रयोगक्रमनियमाभावात्। यदेव कदाचित् प्रथमं तदेव कदाचिद् द्वितीयमिति सर्वपदानामन्विताभिधानमापतितम्। किंच प्रत्ययश्चेदन्विताभिधायी तदा तदविशेषात् पदानामन्विताभिधायिता किमिति नाभ्युपेयते ? किमर्धवैशसेन ?
अत्राभिधीयते; लाक्षणिका एव सर्वे वाक्यार्थाः, ततश्च न पदार्थानामन्वय— बोधने शक्तिगौरवम्। अनन्वितावस्थो हि पदेनार्थोऽभिहितोऽन्वितावस्थां स्वसम्बन्धिनीं लक्षयति। अवस्थावस्थावतोर्हि संबन्धादवस्थावत्यवगते भवत्येवावस्थापि बुद्धिस्था सर्वत्र संबन्धिनि दृष्टे सम्बन्ध्यन्तरे बुद्धिर्भवतीति सिद्धमेव। तेन नास्ति पदार्थानामन्वितबोधने शक्तिकल्पनेति। तदाह—