सर्वदा सर्वथाभावात् क्वचित् किञ्चिद् विवक्ष्यते॥ ११९॥
कारकेष्वप्यकारकविवक्षा यथा— मातुः स्मरति, सर्पिषो जानीते, न माषाणामश्नीयात्।
'नैते सुखस्य जानन्ति ये न वत्स्यन्ति नन्दने'॥ १२०॥ इति।
अत्र कर्मादिषु शेषत्वेन विवक्षितेषु सम्बन्धमात्रे षष्ठी, न कर्मकरणकर्तृष्वपि कारकविभक्तिरिति।
अकारकेषु कारकविवक्षा यथा— 'भवति पचति, भवति पक्ष्यति, भवत्यपाक्षीत्, अस्ति गच्छमो वयमिति। तथा स्मरसि कश्मीरेषु वत्स्यामः, एहि मन्ये न यास्यसि, पश्य मृगो धावति, इह पश्यामः। कर्मणि द्विवचन— बहुवचनान्युदाह्रियन्त इति।
क्रियायामपि कारकविवक्षा यथा— 'चोरस्य रुजति, चोरस्यामयति, चोरं ज्वरयति, चोरं संतापयती'ति। अत्र 'रुजार्थानां भाववचनानामज्वरिसन्ताप्योः (२.३.५४)' इति भावस्यैव कर्तृत्वम्।
१. अत्र राघवः '(उभय)प्रधानं पौरुषेयं च (काव्यं शास्त्रं च)।' इति पूरयते। इतिहासस्तु त्यक्त एव स्थितोऽत्र संपूर्णेऽपि सन्दर्भे।
अक्रियाविवक्षा यथा— 'नीलति वनम्, श्वेतते प्रासादः;
विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम्॥ १२१॥ (कुसं. २. ५५)। इति।
क्रियायां क्रियान्तरविवक्षा यथा— एषितुमिच्छति, कमितुं कामयते, भवेदपि भवेत्, स्यादपि स्यादिति।