अभेदे भेदविवक्षा यथा— परुद् भवान् पटुरासीत् पटुतर ऐषमः अन्य एवासि सम्पन्नः, राहोः शिरः, शिलापुत्रकस्य शरीरम् इति।
भेदेऽप्यभेदविवक्षा यथा— तानेव शालीनश्नीमो ये मधुरायाम्, तानेव शाटकानाच्छादयामो ये पाटलिपुत्र इति।
असतो विवक्षा यथा— समुद्रः कुण्डिका, विन्ध्यो वर्धितकमिति।
सतोऽप्यविवक्षा यथा— अनुदरा कन्या, अलोमिका एडका इति।
सदसतोर्विवक्षा यथा— तदिदमपमेघोदयं वर्षं, सोच्छ्वासं मरणम् इति।
सदसतोरविवक्षा यथा— 'शैलाधिराजतनया न ययौ न तस्थौ' इति। (कुसं.५. ८५)
स्तुत्या निन्दाविवक्षा यथा—
गुणानामेव दौरात्म्याद् धुरि धुर्यो नियुज्यते।
असञ्जातकिणस्कन्धः सुखं स्वपिति गौर्गलिः॥ १२३॥
निन्दया स्तुतिविवक्षा यथा—(काव्याद. २.२७१)