कारकेऽपि क्रियाविवक्षा यथा—'द्रष्टुं चक्षुः, योद्धुं धनुः, गन्तुमनाः, गन्तुकाम' इति। अत्र क्रियायां क्रियार्थायामुपपदे तुमुन् भाव उक्तः। स चक्षुरादीनां क्रियाविवक्षामन्तरेण। न सिध्यतीति।
असम्बन्धे सम्बन्धविवक्षा यथा—(माघ. ३. ७४)
सोटापमुर्वीमनिशं नदन्तो यैः प्लावयिष्यन्ति समन्ततोऽमी।
तान्येकदेशान्निभृतं पयोधेरम्भांसि मेघान् पिबतो ददर्श॥ १२२॥
अचेतनेषु चैतन्यविवक्षा यथा—नदीकूलं पिपतिषति, अश्मा लुलुठिषते।
(चेतने अचैतन्य)—विवक्षा यथा—अश्वारोहः पिपतिषति।
प्रधाने गुणविवक्षा यथा— बलाकायाः शौक्ल्यम्, काकस्य कार्ष्ण्यमिति।
गुणे प्रधानविवक्षा यथा— 'मधुरो रस आप्याययति, अम्लो दीपयतीति।
अवयवे समुदायाविवक्षा यथा— ग्रामो दग्धः, पटो दग्धः, अक्ष्णा काणः, पादेन खञ्ज इति।
समुदाये अवयवविवक्षा यथा—'दोर्दण्डचण्डिममात्रारोपणीये धनुषि सति पदातिलवे लक्ष्मणेन प्रभुरार्यः', 'मामपि तस्यैव सुगृहीतनाम्नो देवस्य भृत्यपरमाणुं विकुक्षिनामानमवधारयतु भवती' इति।