चपलो निर्दयश्चासौ जनः किं तेन मे सखि !
आगःप्रमार्जनायैव चाटवो येन शिक्षिताः॥ १२४॥
विधिना निषेधविवक्षा यथा—(काव्याद. २.१४१)
गच्छ गच्छसि चेत् कान्त ! पन्थानः सन्तु ते शिवाः।
ममापि जन्म तत्रैव भूयाद् यत्र गतो भवान्॥ १२५॥
मा गच्छ प्रमदाप्रिय प्रियशतैर्भूयस्त्वमुक्तौ मया बाला प्राङ्गणमागतेन भवता प्राप्नोत्यवस्थान्तरम्।
किं चास्याः कुचभारपीडनपरैर्यत्नप्रबन्धैरपि त्रुट्यत्कञ्चुकजालकैरनुदिनं निस्सूत्रमस्मद्गृहम्॥ १२६॥
एवमियमनेकधा विवक्षा विप्रथते। तदेष लौकिकवादः—(ध्वन्या. ३.४३)
अस्मिन्नपारे संसारे कविरेकः प्रजापतिः।