पदमभ्यधिकाभावात् स्मारकान्न विशिष्यते॥ ९१॥
भावनावचनस्तावत् तां स्मारयति लोकवत्॥ ९२॥
इत्याचार्यवचनदर्शनात् अभिधावत् स्मारकतामेव पदानाभिधायकतां मन्यते। नापि तावत् पदानां वाक्यार्थपरताभ्युपगन्तव्या, अन्यथा वाक्यार्थस्याशाब्दत्वप्रसङ्गात्।
एवं चेत् पदानामेव साक्षाद् वाक्यार्थबोधने शक्तिरस्तु, किं परम्पराश्रयणेन ?
एवं च पदपदार्थेषु पदानां स्मारकत्वातिरिक्तं येऽभिधायकत्वमाहुस्तेषां शक्तित्रयकल्पना, एका तावत् पदानामभिधान—(शक्तिः, अपरा च पदार्थगतान्वय—) बोधशक्त्याधानशक्तिः, पदार्थानामन्वयज्ञापनशक्तिरिति। स्मारकत्ववादिनां त्वभिधान— शक्तिं हित्वा शक्तिद्वयकल्पना। अन्विताभिधाने पुनरेकैव शक्तिरिति शक्तिकल्पना— लाघवादन्विताभिधायीन्येव पदानीति न्याय्यं, न पुनरभिहितानामन्वय इति।
अत्रोच्यते—यत् तावत् पदार्थानामन्वयबोधकत्वे शक्तित्रयकल्पनागौरवमित्युक्तं, तन्न सम्यक्; प्रमाणान्तरावगतानां पदार्थानामन्वयावबोधकत्वदर्शनात्। दृश्यते—
पश्यतः श्वेतमारूपं हेषाशब्दं च शृण्वतः।
खुरनिक्षेपशब्दं च श्वेतोऽश्वो धावतीति धीः॥ ९३॥ (श्लोवा. ७.३५८)