भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 511 to 520 of 746 verses
पदमभ्यधिकाभावात् स्मारकान्न विशिष्यते॥ ९१॥

(श्‍लोवा. ५.१०७)

भावनावचनस्तावत् तां स्मारयति लोकवत्॥ ९२॥

(श्‍लोवा. ७.२४८)

इत्याचार्यवचनदर्शनात् अभिधावत् स्मारकतामेव पदानाभिधायकतां मन्यते। नापि तावत् पदानां वाक्यार्थपरताभ्युपगन्तव्या, अन्यथा वाक्यार्थस्याशाब्दत्वप्रसङ्गात्।

एवं चेत् पदानामेव साक्षाद् वाक्यार्थबोधने शक्तिरस्तु, किं परम्पराश्रयणेन ?

एवं च पदपदार्थेषु पदानां स्मारकत्वातिरिक्तं येऽभिधायकत्वमाहुस्तेषां शक्तित्रयकल्पना, एका तावत् पदानामभिधान—(शक्तिः, अपरा च पदार्थगतान्वय—) बोधशक्त्याधानशक्तिः, पदार्थानामन्वयज्ञापनशक्तिरिति। स्मारकत्ववादिनां त्वभिधान— शक्तिं हित्वा शक्तिद्वयकल्पना। अन्विताभिधाने पुनरेकैव शक्तिरिति शक्तिकल्पना— लाघवादन्विताभिधायीन्येव पदानीति न्याय्यं, न पुनरभिहितानामन्वय इति।

अत्रोच्यते—यत् तावत् पदार्थानामन्वयबोधकत्वे शक्तित्रयकल्पनागौरवमित्युक्तं, तन्न सम्यक्; प्रमाणान्तरावगतानां पदार्थानामन्वयावबोधकत्वदर्शनात्। दृश्यते—

पश्यतः श्वेतमारूपं हेषाशब्दं च शृण्वतः।

खुरनिक्षेपशब्दं च श्वेतोऽश्वो धावतीति धीः॥ ९३॥ (श्‍लोवा. ७.३५८)

Showing 511 to 520 of 746 verses