भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 531 to 540 of 746 verses
भेदेनैवाभिधानेऽपि प्राधान्यादेवमुच्यते॥ ९५॥

(न्याम.)

लाक्षणिकवाक्यार्थविषये तु मृषैवोपालब्धाः स्मः।

१. मन्ये भोजस्यैवेयं कारिका।

न हि गामानयेत्यादौ लक्षणास्माभिरिष्यते।

गङ्गायां घोष इत्यादौ न चैषा प्रतिषिध्यते॥ ९६॥१

तेन न मुख्यलाक्षणिकवाक्यार्थप्रविभागानुपपत्तिः।

यदपि क्रियाऽवगता कारकान्वयिनीमात्मनो दशामवगमयत्यविनाभावित्वा— दित्यस्मिन् पक्षे विशेषानवधारणमशाब्दत्वं च दोष इत्युक्तं, तदप्यनुमतमेव। न ह्यविनाभावतो विशिष्टा वाक्यार्थप्रतीतिरिति मन्यामहे, अपि त्वाकाङ्क्षासन्नि— धियोग्यताबलेन। आकाङ्क्षादिसद्भावे च शाब्दत्वं भवत्येवेत्यभिहितं पुरस्तात्।

यच्च प्राथम्यादिभिः पदानामेवान्वयबोधनशक्तिरस्त्विति वादितं, तत्राभिधान— शक्तिः पदानामिष्यत एव, अन्वयपर्यन्तता तु तस्या नेष्यते, वाक्यार्थप्रतीतेरन्य— थाप्युपपद्यमानत्वात्। वाक्यार्थे हि तात्पर्यशक्तिः पदानां व्याप्रियते, नाभिधात्री। तां च पृथगविविञ्चता भवतान्विताभिधानमभ्युपगतम्। तच्च न युक्तम्। सर्वत्राभिधात्र्याः शक्तेरविशेषेण प्रवृत्तौ पदार्थनैयत्यानवधारणे पदान्तरोच्चारणवैयर्थ्यादिदोषप्रसङ्गात्। पदान्तरानुच्चारणे त्रयेणान्वितमर्थमभिदधाति गोशब्दः। स नाभिधीयते, तत्संसर्गश्चा— भिधीयत इति विप्रतिषिद्धम्। तदभिधाने तु तद्वत्संबन्धाभिधानमित्येकमेव गोपदं सर्वार्थं स्यात्। तस्मान्न सर्वत्राभिधात्री शक्तिः शब्दस्योपपद्यत इति नान्विताभिधानम्।

एतेन यदुक्तं पदार्थानां बोधनशक्तिरेव कल्प्या, पदानां तु क्लृप्‍ताना— मेवान्वयपर्यन्ततेति धर्मिकल्पनातो धर्मकल्पना लघीयसीति अन्विताभिधानमेव युक्तमिति, तदपि निरस्तं भवति। यच्चोक्तं सम्बन्धस्मरणावगतसम्बन्धिप्रतिपत्ति— सिद्धान्वितार्थगोचरैवाभिधानशक्तिरस्त्विति, तदप्यनुपपन्नम्। सम्बन्धस्मरणसव्यपेक्षस्य पदस्याभिधायकत्वात्। न चान्विते सम्बन्धस्मरणं भवति। प्रतियोगिनामानन्त्येन सम्बन्धस्य ग्रहीतुमशक्यत्वात्। तस्मान्निष्कृष्टपदार्थमात्रविषयत्वमेवाभ्युपगमनीयम्।

Showing 531 to 540 of 746 verses