श्रुत्यर्थपाठस्थानमुख्यप्रवृत्त्यादिभिः पदार्थानां यागादिकर्मसु परिपाट्यावस्थापनं श्रुत्यादिक्रमः। तत्र—
श्रुतिक्रमो यथा— 'अध्वर्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति'।
अर्थक्रमो यथा— 'अग्निहोत्रं जुहोति, यवागूं पचति'।
पाठक्रमो यथा— 'धर्मार्थकामानां समवाये पूर्वः पूर्वो गरीयान्' (कामसू. १.२)।
स्थानक्रमो यथा— 'भूर्भुवःस्वर्लोकाँस्तर्पयति'।
मुख्यक्रमो यथा— 'देवानृषीन् मनुष्यानर्चयति'।
प्रवृत्तिक्रमो यथा— 'प्राग्वदनोऽघमर्षणादीनि जपति'।
एषामन्योन्यसङ्करः क्रमसम्भेदः। तत्र— श्रौतार्थक्रमसङ्करो यथा—