श्रौतार्थप्रावर्तिकक्रमसङ्करो यथा—(माघ. ९.२९)
प्रथमं कलाभवदथार्धमथो हिमदीधितिर्महदभूदुदितः।
दधति स्फुटं क्रमश एव न तु प्रथितौजसोऽपि सहसोपचयम्॥ ११३॥
क्वाप्यस्ताद्रिदरीषु पूष्णि पतिते सान्ध्ये च धाम्नि क्रमात्
किंचित्किंचिदुदञ्चति प्रतिकलं मन्दासु दृक्छक्तिषु।
एताः पक्वपरूषकच्छविमुषः पूर्वं ततस्त्यायता
जायन्ते तमसा दिशः परिणमज्जम्बूफलश्यामलाः॥ ११४॥
श्रौतार्थमुख्यसङ्करो यथा—
श्रुत्वा यं सहसाऽऽगतं निजपुरात् त्रासेन निर्गच्छतां