स्थानानुप्रासो यथा—(काव्याद. १.५३)
एष राजा यदा लक्ष्मीं प्राप्तवान् ब्राह्मणप्रियः।
तदाप्रभृति धर्मस्य लोकेऽस्मिन्नुत्सवोऽभवत्॥ १५२॥
अमृतममृतं चन्द्रश्चन्द्रस्तथाम्बुजमम्बुजं रतिरपि रतिः कामः कामो मधूनि मधून्यपि।
इति न भजते वस्तु प्रायः परस्परसंकरं तदियमबला धत्ते लक्ष्मीं कथं सकलात्मिकाम्॥ १५३॥
कृत्वा कृत्वा कलकलं मारुतेन चलाचलः।
मातर्गुलुगुलायन्ते गजा इव घनाघनाः॥ १५४॥
पादानुप्रासो यथा—(काव्याद. १.३)