नालीनालीनवकुलानाली नालीकिनीरपि॥ १४५॥
अस्थानयमकं यथा—(रुद्रटा. ३.५७)
कमलिनीमलिनी दयितं विना न सहते सह तेन निषेविताम्।
तमधुना मधुना निहितं हृदि स्मरति सा रतिसारमहर्निशम्॥ १४६॥
व्यवहितं व्यपेतयमकं यथा—(काव्याद. ३.२९)
कमलेः समकेशं ते कमलेर्ष्याकरं मुखम्।
कमलेख्यं करोषि त्वं कमलेवोन्मदिष्णुषु॥ १४७॥
अव्यवहितमव्यपेतयमकं यथा—(काव्याद. ३.१८)
रमणी रमणीया मे पाटलापाटलांशुका।
वारुणीवारुणीभूतसौरभाः सौरभास्पदम्॥ १४८॥