तस्या विनापि हारेण निसर्गादेव हारिणौ।
जनयामासतुः कस्य विस्मयं न पयोधरौ॥ १४०॥
विषं निजगले येन बभ्रे च भुजगप्रभुः।
देहे योनाङ्गजो दध्रे जाया च स जयत्यजः॥ १४१॥
तनुत्वरमणीयस्य मध्यस्य च भुजस्य च।
अभवन्नितरां तस्या वलयः कान्तिवृद्धये॥ १४२॥
पदश्लेषो यथा—(काव्याद. २.२९)