अलिनीलालकलतं कं न हन्ति घनस्तनि!।
आननं नलिनच्छायनयनं शशिकान्ति ते॥ १३४॥
द्विवर्णं यथा—(माघ. १९.६६)
भूरिभिर्भारिभिर्भीरैर्भूभारैरभिरेभिरे।
भेरीरेभिभिरभ्राभैरभीरुभिरिभैरिभाः॥ १३५॥
गतिचित्रं यथा—(माघ. १९.४४) गतप्रत्यागतार्थ(र्ध)म्
वारणागगभीरा सा साराभीगगणारवा।
कारितारिवधा सेना नासेधावरितारिका॥ १३६॥
बन्धचित्रं यथा—(माघ. १९.२९) मुरजबन्धः
सा सेना गमनारम्भे रसेनासीदनारता।