तारनादजना मत्तधीरनागमनामया॥ १३७॥
याश्रिता पावनतया यातनाच्छिदनीचया।
याचनीया धिया मायायामायासं स्तुता श्रिया॥ १३८॥
द्वयोस्तन्त्रेणाभिधानं श्लेषः। स षोढा—
प्रकृतिश्लेषः, प्रत्ययश्लेषः, विभक्तिश्लेषः, वचनश्लेषः, पदश्लेषः, भाषाश्लेषः इति। तेषु —
त्वमेव धातुः पूर्वोऽसि त्वमेव प्रत्ययः परः।
अनाख्यातं न ते किञ्चिदतस्त्वं नोपमीयसे॥ १३९॥