अनेन कल्याणि! करे गृहीते महाकुलीनेन महीव गुर्वी।
रत्नानुविद्धार्णवमेखलाया दिशः सपत्नी भव दक्षिणस्याः॥ १०३॥
व्यस्ता यथा—(किराता ३.४८)
स क्षत्रियस्त्राणसहः क्षताद् यस्तत् कार्मुकं कर्मसु यस्य शक्तिः।
वहन् द्वयीमप्यफलेऽर्थजाते करोत्यसत्कारहतामिवोक्तिम्॥ १०४॥
'श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौबैल्यमर्थविप्रकर्षाद्' (पू. मी. ३.३.१४) इति श्रुत्यादिबलाबलं तदप्यखण्डवाक्यार्थपक्षे असमर्थितमेव भवति। यतः— (वाप. २.७२)
अखण्डमेव वाक्यं चेदविभक्तार्थमिष्यते।
तत् सर्वं श्रुतिभूतत्वान्न श्रुत्यैव विरोत्स्यते॥ १०५॥