भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 491 to 500 of 1676 verses
प्रकाशकार्कश्यगुणौ दधानाः स्तनौ तरुण्यः परिवव्रुरेनम्॥ १०२॥

(४५. श्रुत्यादिविनियोगः)

श्रुतिः लिङ्गं वाक्यं प्रकरणं स्थानं समाख्येति श्रुत्यादयः। तैः प्रधानाङ्गत्वापादनं श्रुत्यादिविनियोगः। स

श्रुतितो यथा— पशुना रुद्रं यजते; अत्र पशुनेति तृतीयाश्रुत्या रुद्रयागे पशोरङ्गभावः प्रतिपाद्यते।

लिङ्गतो यथा— 'बर्हिर्देवसदनं दामि' इति; अत्र दामीति लवनलिङ्गादनेन मन्त्रेण बहींषि लुनीयादिति प्रतीयते।

वाक्यतो यथा— श्वेतं छागमालभेत; अत्रैकवाक्योपादानाच्छ्‌वेतगुणस्य छागावच्छेदकत्वेन क्रियाङ्गभावो अव गम्यते।

प्रकरणतो यथा— समिधो यजति, तनूनपातं यजति, इडो यजति, बर्हिर्यजति, स्वाहाकारं यजति, इति प्रयाजानां दर्शपूर्णमासप्रकरणे पठितानां तदङ्गत्वमवगम्यते।

स्थानतो यथा— मार्जनाघमर्षणोपस्थानजपहोमादिस्थानेषु पठितानां मन्त्राणां तत्रैवाङ्गभावो भवति।

समाख्यातो यथा— हौत्रं कर्म, आध्वर्यवं कर्म, औद्गात्रं कर्मेत्यन्वर्थसंज्ञा— बलाद्धौत्रादीनामेव तेष्वङ्गभावो भवति।

श्रुत्यादयश्च क्‍वचित्समस्ताः क्‍वचिद्व‍यस्ता एव विनियोजयन्ति।

Showing 491 to 500 of 1676 verses