वाक्यार्थो लक्ष्यमाणो हि सर्वत्रैवेति लक्ष्यते॥ ८८॥
वाच्यस्यार्थस्य वाक्यार्थे सम्बन्धानुपपत्तितः।
तत्सम्बन्धवशप्राप्तस्यान्वयात् लक्षणोच्यते॥ ८९॥
तद्यथा— 'गङ्गायां घोषः प्रतिवसतीत्यादिश्रौतस्य गङ्गार्थस्य वाक्यान्वयासम्भवात् तत् परित्यज्य तत्सम्बन्धाल्लब्धसन्निधेः कूलस्य वाक्यान्वितताऽध्यवसीयते। अत एव चाहुः—'अनुपपत्त्या सम्बन्धेन च लक्षणा भवति इह च गामानयेत्यादौ न श्रौतस्यान्वया— योग्यत्वं, नाप्यन्वितावस्थस्यानयनसम्बन्धार्हता, अन्वितस्यान्वयान्तराभावात्।
अपि च सर्ववाक्यार्थानां लाक्षणिकत्वे मुख्य x x x।
अथ मा भूदेषा लक्षणा। किंतु क्रियावगतकारकान्वयिनीमात्मनो दशामवगमयत्यविनाभावित्वादिति।
उच्यते—'शाब्दत्वं तावदित्थमपह्नुतमन्वयावगमस्य। किंतु सामान्यतोदुष्टा— नुमानगोचरताऽभ्युगता भवति। तथा च विशेषावगतिरनुपपन्नमूलाऽऽपद्येत।