स्यादेतदेवं यदि मानान्तरावसेयानां पदार्थानामन्योन्यान्वयावगमसामर्थ्यं नावधार्यते। अवधार्यते च श्वैत्यस्यानवधारिताश्रयविशेषस्याप्रत्यक्षोपलब्धस्याश्वस्य चाप्रतिपन्नगुणविशेषस्य हेषाशब्दानुमितस्य श्वेतोऽश्वो धावतीत्यन्वयः। तदाह—
पश्यतः श्वेतमारूपं हेषाशब्दं च शृण्वतः।
पदनिक्षेपशब्दं च श्वेतोऽश्वो धावतीति धीः॥ ८५॥
दृष्टा वाक्यविनिर्मुक्ता (श्लो. वा.)॥ ८६॥
आरूपमित्यव्यक्तरूपम्। तेन गुणविशेषो न प्रत्यक्षेणावसीयत इति उक्तं भवति।
अत्रेदं पर्यनुयुज्यते—'किं येन पुरुषेण श्वैत्यसमानाश्रयौ हेषाध्वनिपद— निक्षेपशब्दाववगतौ तस्यैवेयं श्वेतोऽश्वो धावतीति धीः, उत यस्यापादानानध्यवसाय— स्तस्यापीति ?
यदि तावदप्रत्याकलितहेषाध्वनिपादविहारनिर्घोषापादानस्येत्युच्यते, तदा प्रतीति— विरोधः; स ह्येवं प्रतिपद्यतेभवितव्यमस्मिन् देशे नूनमश्वेन, भाव्यं च केनचिद् धावतेति।
अथाश्वसम्बन्धिनमेव खुरपुटटङ्काररवमभ्यासपाटववशादवैति, तदासावश्ववर्तिनीं वेगवतीं गतिमनुमिनोति, न पुनः केवलामेवावगम्य तस्यान्वयं पदार्थसामर्थ्येनाव— बुध्यते। योऽप्यस्मिन् देशे नास्त्यन्योऽश्वाद् इति निश्चित्य पारिशेष्यादपादा— नाध्यवसायेऽपि हेषाध्वनेः श्वैत्यसमानाधिकरणमश्वत्वमप्यध्यवस्यति तस्यापि गृहाभावदर्शनमिव बहिर्भावावगतावर्थापत्तिः 'योऽयं श्वेतः स एवाश्व' इति प्रमाणम्। यस्तु श्वेतसमानाधिकरणहेषाध्वनिखुरपुटटङ्काररवावध्यवस्यति तस्याश्वात्वे वेगवति च गमने श्वेतद्रव्यवर्तिन्येवानुमानं न स्वतन्त्रयोः। अतः प्रमाणान्तरेण असम्बन्धावगतार्थानां न क्वचिदनुमानार्थापत्तिव्यतिरेकेणान्वयबोधकत्वं प्रतीतम्।