तत्र च क्रियापदानि क्रियामात्रमभिदधति, कारकपदानि तु कारकमात्रम्, कुतो वैषां मिथस्संसर्ग(ज्ञान—)म् ? न ह्येकपदोच्चारणकाले पदान्तरार्थप्रतीतिरस्ति। न चाप्रतीयमानेनापि संसर्गप्रतीतिरस्ति।
न चाप्रतीयमानेनापि संसर्गप्रतीतिप्रसङ्गः।
ननु च वृद्धव्यवहारात् पदानां अर्थावधारणम्, वृद्धाश्च वाक्येनैव व्यवहरन्ति, न पदेन। वाक्ये वान्वितानामेव पदार्थानामुपलम्भात् कथमुच्यते क्रिया x x x मात्रं पदेभ्योऽवगम्यत इति ?
उच्यते—'सत्यं वाक्येभ्य एव पदानां व्युत्पत्तिः; सा तु किमेकघटनाकारक— संहतवाक्यार्थनिष्ठा, किं वा पदार्थपर्यन्तेति चिन्तनीयम्।
पूर्वस्मिन् पक्षे प्रतिवाक्यं व्युत्पत्तिरपेक्षणीया, सा चानन्त्यव्यभिचारा— दिभिर्बहुप्रमादा। पदार्थपर्यन्तायां च व्युत्पत्तौ नूनं निर्धारणीयम् 'इयानस्य पदस्यार्थ' इति। अन्वितार्थाभिधानवादिनोऽपि नियतः x x x करणीयः। पदार्थनियमानपेक्षणे हि गामानयेति विवक्षुरश्वपदमपि निमित्ततयोपाददीत। न हि तस्यानपेक्षितपदपदार्थप्रविभागो वैयाकरणवद् वाक्यार्थप्रत्यय उदेति। तस्माद् यावानावापोद्वापपर्यालोचनया पदस्यार्थो निर्धार्यते तावानेव तस्यार्थ इति।
नन्वाकाङ्क्षितयोग्यसन्निहितार्थोपरक्तस्तस्यार्थो भवतु, सर्वदा संहत्य व्याप्रियमाणत्वात्।
नैवम्; सर्वदा संहत्य व्याप्रियमाणस्तु तावान्, यावत्यभिधात्री तस्य शक्तिः।
कियती च तस्याभिधात्री शक्ति ?
यावन्तमर्थमाकाङ्क्षितैर्योग्यैः सन्निहितैश्च संयुज्यमानं वियुज्यमानं च न मुञ्चति क्रियामात्रं कारकमात्रं च; अतस्तावत्येवाभिधात्री शक्तिरन्वयव्यतिरेकाभ्यां तस्य निर्धार्यते। तदुक्तम्, 'अव्यभिचाराद्धि तन्मात्रमेव तदर्थो नाधिकं व्यभिचारात्' इति।
नन्वत्र शक्तित्रयकल्पनागौरवलक्षणो दोषः प्राप्नोति। पदार्थानां हि शब्दादन्यतः प्रमाणादवबोधकत्वं दृष्टमिति शब्दाभिधेयानां तदवबोधकत्वशक्तिः कल्पनीया। तस्याश्चोत्पत्तौ शब्दसंस्पर्श एव हेतुरित्याश्रयणीयम्। शब्दो हि विशिष्टार्थ— प्रतिपत्तिपरतया लोके प्रयुज्यमानो दृष्टः, न चासौ साक्षाद् वाक्यार्थप्रतिपादने समर्थ इति पदार्थानवान्तरव्यापारीकरोति। ते च यद्यन्योन्यान्वयबोधनसमर्थास्तदा तेषामवान्तर— व्यापारता स्यात्, नान्यथा। पदार्थानामपि विशिष्टार्थावबोधपरशब्दसंस्पर्शादेषा शक्तिराविर्भवतीति शब्दस्यापि पदार्थगतशक्त्याधानशक्तिरनुमन्तव्येति।